वांछित मन्त्र चुनें

इष्य॒न्वाच॑मुपव॒क्तेव॒ होतु॑: पुना॒न इ॑न्दो॒ वि ष्या॑ मनी॒षाम् । इन्द्र॑श्च॒ यत्क्षय॑थ॒: सौभ॑गाय सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥

अंग्रेज़ी लिप्यंतरण

iṣyan vācam upavakteva hotuḥ punāna indo vi ṣyā manīṣām | indraś ca yat kṣayathaḥ saubhagāya suvīryasya patayaḥ syāma ||

पद पाठ

इष्य॑न् । वाच॑म् । उ॒प॒व॒क्ताऽइ॑व । होतुः॑ । पु॒ना॒नः । इ॒न्दो॒ इति॑ । वि । स्य॒ । म॒नी॒षाम् । इन्द्रः॑ । च॒ । यत् । क्षय॑थः । सौभ॑गाय । सु॒ऽवीर्य॑स्य । पत॑यः । स्या॒म॒ ॥ ९.९५.५

ऋग्वेद » मण्डल:9» सूक्त:95» मन्त्र:5 | अष्टक:7» अध्याय:4» वर्ग:5» मन्त्र:5 | मण्डल:9» अनुवाक:5» मन्त्र:5


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (इन्दो) हे प्रकाशस्वरूप परमात्मन् ! आप (मनीषाम्) बुद्धि को हमारे लिये (विष्य) प्रदान कीजिये और (वाचमिष्यन्) वाणी की इच्छा करते हुए (उपवक्तेव) वक्ता के समान (होतुः) उपासक को सदुपदेश करें (च) और (यत्) जो (इन्द्रः) कर्म्मयोगी और आप (क्षयथः) दोनों अद्वैतभाव को प्राप्त हैं, (सौभगाय) इस सौभाग्य के लिये हम आपका धन्यवाद करते हैं और आपसे प्रार्थना करते हैं कि (सुवीर्य्यस्य, पतयः, स्याम) सर्वोपरि बल के पति हों ॥५॥
भावार्थभाषाः - इस मन्त्र में उक्त परमात्मा से बल की प्रार्थना की गयी है ॥५॥ यह ९५ वाँ सूक्त और पाँचवाँ वर्ग समाप्त हुआ ॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (इन्दो) हे प्रकाशस्वरूप परमात्मन् ! भवान् (मनीषां) अस्मभ्यं बुद्धिं (वि, स्य) प्रयच्छतु तथा (वाचं, इष्यन्) वाणीं कामयमानः (उपवक्ता, इव) वक्ता इव तथा (होतुः) उपासकं सदैवोपदिशतु (च) तथा (यत्) यद्धि (इन्द्रः) कर्मयोगी भवांश्च (क्षयथः) उभावपि अद्वैतभावं प्राप्तौ (सौभगाय) अस्मै सौभाग्याय धन्यं मन्ये भवन्तं प्रार्थये च (सुवीर्यस्य) सर्वोपरि बलस्य (पतयः, स्याम) पतयो भवेम ॥५॥ इति पञ्चनवतितमं सूक्तं पञ्चमो वर्गश्च समाप्तः ॥